वांछित मन्त्र चुनें

नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥

अंग्रेज़ी लिप्यंतरण

nāhaṁ taṁ veda ya iti bravīty adevayūn samaraṇe jaghanvān | yadāvākhyat samaraṇam ṛghāvad ād id dha me vṛṣabhā pra bruvanti ||

पद पाठ

न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् । य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥ १०.२७.३

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:15» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अदेवयून् समरणे जघन्वान्) मुझे अपना इष्टदेव न माननेवालों को संग्राम में मारता हूँ (इति यः-ब्रवीति) ऐसी जो घोषणा करता है, (तम्-न-अहं वेद) मैं उसे नहीं जानता, क्योंकि मेरे बिना कोई ऐसा नहीं कह सकता है, मेरी सहायता से ही मार सकता है (यदा समरणे-अवाख्यत्) जब संग्राम को, अपने अन्दर साक्षात् देखता है (ऋघावत्-आत्-इत्-ह) परस्पर देवासुरवृत्तियाँ सत्य-असत्य-विवेचक जिसमें मतियाँ होती हैं, वह ऋघावान् उसकी भाँति तुरन्त ही (मे वृषभा प्र ब्रुवन्ति) मेरे बलवान् कर्मों को प्रशंसित करते हैं ॥३॥
भावार्थभाषाः - मनुष्य किसी भी संग्राम-प्रसङ्ग में अपने विरोधी को बिना परमात्मा की सहायता पाये परास्त नहीं कर सकता। देवासुरवृत्तियों के आन्तरिक संग्राम में परमात्मा की सहायता की आवश्यकता है, अतः उस परमात्मा के गुण, कर्म, पौरुष की स्तुति करनी चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अदेवयून् समरणे जघन्वान्) मां देवं न मन्यमानान् संग्रामे हन्मि (इति यः-ब्रवीति) एवं यो ब्रवीति घोषयति (तम् न अहं वेद) न खलु-अहमित्थं वेद्मि जानामि-मन्ये, मया विना न कोपि इत्थं वक्तुमर्हति मम साहाय्येनैव हन्तुमर्हति (यदा समरणे-अवाख्यत्) यदा संग्रामे साक्षात् पश्यति स्वाभ्यन्तरे (ऋघावत्-आत्-इत्-ह) परस्परं देवासुरवृत्तयः सत्यासत्यविवेचिका मतयो विद्यन्ते यस्मिन् स ऋघावान्-तद्वत् “ऋघाः सत्यासत्यविवेचिका मतयो विद्यन्ते यस्मिन् सः ॠन् शत्रून् घ्नन्ति यस्मिन् हन् धातोर्वर्णव्यत्ययेन हस्य घ नलोपश्च” [ऋ० १।१५२।२।दयानन्दः] अनन्तरं हि (मे वृषभा प्र ब्रुवन्ति) तदा मम बलवन्ति कर्माणि स्वाभ्यन्तरे प्रशंसन्ति ॥३॥